(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.54. अध्यायः 054
Mahabharata - Vana Parva - Chapter Topics
स्वयंवरमण्डपे इन्द्राग्नियमवरुणैर्नलसारूप्येण तत्पार्श्वे समुपवेशनम् ॥ 1 ॥ दमयन्त्या स्वगुणसंतुष्टेन्द्रादिप्रसादेव नलस्थैव वरणम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

बृहदश्व उवाच। 3-54-0x(1923)(17927)
अथ काले शुभे प्राप्ते तथौ पुण्ये क्षणे तथा।
आजुहाव महीपालान्भीमो राजा स्वयंवरे ॥ 3-54-1(17928)
तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः।
त्वरिताः समपाजग्मुर्दमयन्तीमभीप्सवः ॥ 3-54-2(17929)
कनकस्तम्भरुचिरं तोरणेन विराजितम्।
विविशुस्ते नृपा रङ्गं महासिंह इवाचलम् ॥ 3-54-3(17930)
तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः।
सुरभिस्रग्धराः सर्वे प्रमृष्टमणिकुण्डलाः ॥ 3-54-4(17931)
संपूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव।
`प्रविवेश नलो देवैः पुण्यश्लोको नराधिप' ॥ 3-54-5(17932)
तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः।
आकारवर्णसुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः ॥ 3-54-6(17933)
सुकेशान्तानि चारूणि सुनासानि शुभानि च।
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ॥ 3-54-7(17934)
दमयन्ती ततो रङ्गं प्रविवेश शुभानना।
मुष्णन्ती प्रभया राज्ञां चक्षूषि च मनांसि च ॥ 3-54-8(17935)
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम्।
तत्रतत्रैव सक्ताऽभून्न चचाल च पश्यताम् ॥ 3-54-9(17936)
ततः संकीर्त्यमानेषु राज्ञां नामसु भारत।
ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिह ॥ 3-54-10(17937)
तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान्।
संदेहादथ वेदर्भी नाभ्यजानान्नलं नृपम् ॥ 3-54-11(17938)
`निर्विशेषवयोवेषरूपाणां तत्र सा शुभा।'
यंयं हि ददृशे तेषां तंतं मेने नलं नृपम्।
साचिन्तयन्ती बुद्ध्याऽथ तर्कयामास भामिनी ॥ 3-54-12(17939)
कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम्।
एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता ॥ 3-54-13(17940)
श्रुतानि देवलिङ्गानि तर्कयामास भारत।
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे ॥ 3-54-14(17941)
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये।
एवं विचिन्त्य बहुधा विचार्य च पुनः पुनः ॥ 3-54-15(17942)
शरणं प्रति देवानां प्राप्तकालममन्यत।
वाचा च मनसा चैव नमस्कारं प्रयुज्य सा ॥ 3-54-16(17943)
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत्।
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः।
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ॥ 3-54-17(17944)
मनसा वचसा चैव यथा नातिचराम्यहम्।
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे ॥ 3-54-18(17945)
यथा देवैः स मे भर्ता विहितो निषधाधिषः।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥ 3-54-19(17946)
यथेदं व्रतमारब्धं नलस्याराधने मया।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥ 3-54-20(17947)
स्वं चैव रूपं पुष्यन्तु लोकपाला महेश्वराः।
यथाऽहमभिजानीयां पुण्यश्लोकं नराधिपम् ॥ 3-54-21(17948)
निशम्य दमयन्त्यास्तत्करुणं प्रतिदेवितम्।
निश्चयंपरमं तथ्यमनुरागं च नैषधे ॥ 3-54-22(17949)
मनोविशुद्धिं बुद्धिं च भक्तिं रागं च नैषधे।
यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे ॥ 3-54-23(17950)
साऽपश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान्।
अम्लानस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् ॥ 3-54-24(17951)
छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः।
भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः ॥ 3-54-25(17952)
सा समीक्ष्य तु तान्देवान्पुण्यश्लोकं च भारत।
नैषधं वरयामास भैमी धर्मेण पाण्डव ॥ 3-54-26(17953)
विलज्जमाना वस्त्रान्तं जग्राहायतलोचना।
स्कन्धदेशेऽसृजत्तस्य स्रजं परमशोभनाम् ॥ 3-54-27(17954)
वरयामास चैवैनं पतित्वे वरवर्णिनी।
ततो हाहेति सहसा मुक्तः शब्दो नराधिपैः ॥ 3-54-28(17955)
देवैर्महर्षिभिस्तत्र साधुसाध्विति भारत।
विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् ॥ 3-54-29(17956)
दमयन्तीं तु कौरव्य वीरसेनसुतो नृपः।
आश्वासयद्वरारोहां प्रहृष्टेनान्तरात्मना ॥ 3-54-30(17957)
यत्त्वं भजसि कल्याणि पुमांसं देवसन्निधौ।
तस्मान्मां विद्धि भर्तारमेतत्ते वचने रतम् ॥ 3-54-31(17958)
यावच्च मे धरिष्यन्ति प्राणा देहे शुचिस्मिते।
तावत्त्वयि भविष्यामि सत्यमेतद्ब्रवीमि ते ॥ 3-54-32(17959)
दमयन्ती तथा वाग्भिरभिनन्द्य कृताञ्जलिः ॥ 3-54-33(17960)
तौ परस्परतः प्रीतौ दृष्ट्वा त्वग्निपुरोगमान्।
तानेव शरणं देवाञ्जग्मतुर्मनसा तदा ॥ 3-54-34(17961)
वृते तु नैषधे भैम्या लोकपाला महौजसः।
प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः ॥ 3-54-35(17962)
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम्।
नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः ॥ 3-54-36(17963)
अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः।
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः ॥ 3-54-37(17964)
यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम्।
अपांपतिरपां भावं यत्रवाञ्छति नैपधः ॥
स्रजश्चोत्तमगन्धाढ्याः सर्वेच मिथुनं ददुः 3-54-38(17965)
वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः।
`एतत्सर्वं नलोऽपश्यद्दमयन्ती च भारत।
यथा स्वप्नं महाराज तथैव ददृशुर्जनाः ॥ 3-54-39(17966)
ततः स्वयवरं चक्रे भीमो राजाऽतिमानुषम्।
समागतेषु सर्वेषु भूपालेसु विशांपते ॥ 3-54-40(17967)
दमयन्त्यपि तद्दृष्ट्वाराजमण्डलमृद्धिमत्।
अन्वीक्ष्यनैषधं वव्रे भैमी धर्मेण भारत ॥ 3-54-41(17968)
वृते च नैषधे भैम्या निवृत्ते च स्वयंवरे।
सर्व एव महीपालाः प्रतिजग्मुर्यथागतम्' ॥ 3-54-42(17969)
पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः।
दमयन्त्याश्च मुदिताः प्रतिजग्मुर्यथागतम् ॥ 3-54-43(17970)
गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः।
विवाहं कारयामास दमयन्त्या नलस्य च ॥ 3-54-44(17971)
उष्य तत्र तथाकामं नैषधो द्विपदांवरः।
भीमेन समनुज्ञातो जगाम नगरं स्वकम्।
अवाप्य नारीरत्नं तु पुण्यश्लोकोपि पार्थिवः ॥ 3-54-45(17972)
रेमे सह तया राजञ्छच्येव बलवृत्रहा।
अतीव मुदितो राजा भ्राजमानोंशुमानिव ॥ 3-54-46(17973)
अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन्।
ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः।
अन्यैश्च बहुभिर्धीमान्क्रतुभिश्चाप्तदक्षिणैः ॥ 3-54-47(17974)
पुगश्च रमणीयेषु वनेषूपवनेषु च।
दमयन्त्या सह नलो विजहारामरोपमः ॥ 3-54-48(17975)
जनयामास च ततो दमयन्त्यां महामनाः।
इन्द्रसेनं सुतं चापि इन्द्रसेनां चकन्यकाम् ॥ 3-54-49(17976)
एवं स यजमानश्च विहरंश्च नराधिपः।
ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः ॥ 3-54-50(17977)

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि चतुःपञ्चाशोऽध्यायः ॥ 54 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-54-7 सुनासाक्षिभ्रुवाणि श्वेति झ. पाठः ॥ 3-54-8 मुष्णन्ती हरन्त ॥ 3-54-21 लोकपालाः सहेश्वरा इति झ. पाठः ॥ 3-54-24 अम्लानस्रजश्च ते रजोहीनाश्चेति विग्रहः। ठायाविहीनानम्लानस्रजोऽस्वेदसमन्वितानिति क. पाठः ॥ 3-54-31 यद्यस्मान्मां भजसि तस्मात्ते तव वचने रतं इत्येतत् विद्धि ॥ 3-54-37 आत्मभवं भात्मन आविर्भावम् ॥ 3-54-38 अन्नरसं यादृशे तादृशेप्यन्ने विशिष्टरसवत्ताम्। भावं सत्ताम्। मुधुनं एकैकेन द्वयं द्वयमपीत्यर्थः ॥ 3-54-43 अनुभूय दृष्ट्वा ॥ 3-54-45 उष्य वासं कृत्वा ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.